|
|
 |
 |
|
|
१४ अश्वमेधिकपर्व.jpg)
॥ श्रीः ॥
14.31. अध्यायः 031
अथानुगीतापर्व-2
Mahabharata - Ashvamedhika Parva - Chapter Topics
परशुरामंप्रति तत्पितृभिः क्षत्रियवधान्निवर्तनायालर्कोपाख्यानकथनम्॥ 1 ॥ रामेण तच्छ्रवणाद्धिंसातो निवर्त्य तपश्चरणम्॥ 2 ॥
Mahabharata - Ashvamedhika Parva - Chapter Text
name="Azvamedhika-14-31-1x">पितर ऊचुः।
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम॥ 14-31-1(93236)
अलर्को नाम राजर्षिरभवत्सुमहातपाः।
धर्मज्ञः सत्यवादी च महात्मा सुदृढव्रतः॥ 14-31-2(93237)
स सागरान्तां धनुषा विनिर्जित्य महीमिमाम्।
कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे॥ 14-31-3(93238)
स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह।
उत्सृय सुमहद्राज्यं सूक्ष्मं प्रति महामते॥ 14-31-4(93239)
अलर्क उवाच। 14-31-5x(7841)
मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः।
अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः॥ 14-31-5(93240)
यदिदं चापलात्कर्म सर्वान्मर्त्यांश्चिकीर्षति।
मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान्॥ 14-31-6(93241)
मन उवाच। 14-31-7x(7842)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-7(93242)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तत्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-8(93243)
आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति।
तस्माद्ध्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥ 14-31-9(93244)
घ्राण उवाच। 14-31-10x(7843)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-10(93245)
अन्यान्याणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-11(93246)
इयं स्वादून्रसान्भुक्त्वा तानेव प्रति गृध्यति।
तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥ 14-31-12(93247)
जिह्वोवाच। 14-31-13x(7844)
नेमे वाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम्॥ 14-31-13(93248)
अन्यान्वाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-14(93249)
स्पृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति।
तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रिभिः॥ 14-31-15(93250)
त्वगुवाच। 14-31-16x(7845)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-16(93251)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-17(93252)
श्रुत्वा तु विविधाञ्शब्दांस्तानेव प्रतिगृध्यति।
तस्माच्छ्रोत्रं प्रति शरान्प्रति मुञ्चाम्यहं शितान्॥ 14-31-18(93253)
श्रोत्रमुवाच। 14-31-19x(7846)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति ततो हास्यति जीवितम्॥ 14-31-19(93254)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि।
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-20(93255)
दृष्ट्वा रूपाणि बहुशस्तान्येव प्रतिगृध्यति।
तस्माच्चक्षुर्हनिष्यामि निशितैः सायकैरहम्॥ 14-31-21(93256)
चक्षुरुवाच। 14-31-22x(7847)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि॥ 14-31-22(93257)
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति
तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत्॥ 14-31-23(93258)
इयं निष्ठा बहुविधा प्रज्ञया त्वद्यवस्यति।
तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान्॥ 14-31-24(93259)
बुद्धिरुवाच। 14-31-25x(7848)
नेमे बाणास्तरिष्यन्ति मामलर्क कथञ्चन।
तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि।
अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि॥ 14-31-25(93260)
पितर ऊचुः। 14-31-26x(7849)
ततोऽलर्कस्तपो घोरं तत्रैवास्थाय दुष्करम्।
नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु॥ 14-31-26(93261)
सुसमाहितचेतास्तु स ततोऽचिन्तयत्प्रभुः।
स विचिन्त्य चिरं कालमलर्को द्विजसत्तम।
नाध्यगच्छत्परं श्रेयो योगान्मतिमतांवरः॥ 14-31-27(93262)
स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः।
इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान्॥ 14-31-28(93263)
योगेनात्मानमाविश्य सिद्धिं परमिकां गतः।
विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह॥ 14-31-29(93264)
अहो कष्टं यदस्माभिः सर्वं बाह्यमनुष्ठितम्।
भोगतृष्णासमायुक्तैः पूर्वं राज्यमुपासितम्।
इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम्॥ 14-31-30(93265)
इति त्वमनुजानीहि राम मा क्षत्रियान्वधीः।
तषो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे॥ 14-31-31(93266)
इत्युक्तः पितृभिः सोथ तपो घोरं समास्थितः।
जामदग्न्यो महाभागे सिद्धिं च परमां गतः॥ ॥ 14-31-32(93267)
इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः॥ 31 ॥
Mahabharata - Ashvamedhika Parva - Chapter Footnotes
7-31-1 अत्र हिंसाया अकार्यत्वे। 1 ॥ 7-31-5 अन्यत्र बाह्यशत्रुभ्य इति शेषः। शत्रुभिरिन्द्रियाख्यवैरिभिः॥ 5 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|